श्रीचैतन्य सहस्त्रनाम स्त्रोत्र

नमस्तस्मै भगवते चैतन्याय महात्मने । कलिकल्मषनाशाय भवाब्धितारणाय च ॥१॥
ब्रह्मणा हरिदासेन श्रीरूपाय प्रकाशितम् । तत्सर्वं कथयिष्यामि सावधानं निशामय ॥२॥
श्रुत्वैवं वैष्णवाः सर्वे प्रहृष्टाः प्रेमविह्वलाः । सादरं परिपप्रच्छुः प्रेमगद्गदया गिरा ॥३॥
वैष्णवानां हि कृपया स्मृत्वा वाक्यं पितुस्तदा । सणोन्त्य भगवद्रूपं नामानि कथयामि वै ॥४॥
ध्यानम् ।
ॐ अस्य श्रीकृष्णचैतन्यसहस्रनामस्तोत्रस्य नारायणः ऋषिः अनुष्टुप् छन्दः
श्रीमद्भगवद्भक्तिर्देवता श्रीराधाकृष्णप्रीतये श्रीकृष्णचैतन्य नामसहस्रपथे विनियोगः ।
ॐ नमः प्रेमसमुच्चयाय गोपीजनवल्लभाय महात्मने । ॐ विश्वम्भरः सदानन्दो विश्वजिद्विश्वभावनः ।
महानुभावो विश्वात्मा गौराङ्गो गौरभावनः ॥५॥
हेमप्रभो दीर्घबाहुर्दीर्घग्रीवः शुचिर्वसुः । चैतन्यश्चेतनश्चेतश्चित्तरूपी प्रभुः स्वयम् ॥६॥
राधाङ्गी राधिकाभावो राधान्वेशी प्रियंवदः । नीतिज्ञः सर्वधर्मज्ञो भक्तिमान् पुरुषोत्तमः ॥७॥
अनुभावी महाधैर्यः शास्त्रज्ञो नित्यनूतनः । प्रभावी भगवान् कृष्णश्चैतन्यो रसविग्रहः ॥८॥
अनादिनिधनो धाता धरणीमन्दनः शुचिः । वराङ्गश्चञ्चलो दक्षः प्रतापी साधुसङ्गतः ॥९॥
उन्मादी उन्मदो वीरो धीरग्राणी रसप्रियः । रक्ताम्बरो दण्डधरः संन्यासी यतिभूषणः ॥१०॥
दण्डी छत्री चक्रपाणिः कृपालुः सर्वदर्शनः । निरायुधः सर्वशास्ता कलिदोषप्रनाशनः ॥११॥
गुरुवर्यः कृपासिन्धुर्विक्रमी च जनार्दनः । म्लेच्छग्राही कुनीतिघ्नो दुष्टहारी कृपाकुलः ॥१२॥
ब्रह्मचारी यतिवरो ब्रह्मण्यो ब्राह्मणः सुधीः । द्विजराजश्चक्रवर्ती कविः कृपणवत्सलः ॥१३॥
निरीहः पावकोऽर्थज्ञो निर्धूमः पावकोपमः । नारवन्द्यो हराकारो भविष्णुर्नरनायकः ॥१४॥
दानवीरो युद्धवीरो दयावीरो वृकोदरः । ज्ञानवीरो महावीरः शान्तिवीरः प्रतापनः ॥१५॥
श्रीजिष्णुर्भ्रमिको जिष्णुः सहिष्णुश्चारुदर्शनः । नरो वरीयान् दुर्दर्शो नवद्वीपसुधाकरः ॥१६॥
चन्द्रहास्यश्चन्द्रनखो बलिमदुदरो बली । सूर्यप्रभः सूर्यकांशुः सूर्याङ्गो मणिभूषणः ॥१७॥
कम्भुकण्ठः कपोलश्रीर्निम्ननाभिः सुलोचनः । जगन्नाथसुतो विप्रो रत्नाङ्गो रत्नभूषणः ॥१८॥
तीर्थार्थी तीर्थदस्तीर्थस्तीर्थाङ्गस्तीर्थसाधकः । तीर्थास्पदस्तीर्थवासस्तीर्थसेवी निराश्रयः ॥१९॥
तीर्थालादी तीर्थप्रदो ब्राह्मको ब्रह्मणो भ्रमी । श्रीवासपण्डितानन्दो रामानन्दप्रियङ्करः ॥२०॥
गदाधरप्रियो दासो विक्रमी शङ्करप्रियः । योगी योगप्रदो योगो योगकारी त्रियोगकृत् ॥२१॥
सर्वः सर्वस्वदो भूमा सर्वाङ्गः सर्वसम्भवः । वाणिर्बाणायुधो वादी वाचस्पतिरयोनिजः ॥२२॥
बुद्धिः सत्यं बलं तेजो धृतिमान् जङ्गमकृतिः । मुरारिर्वर्धनो धाता नृहरिः मानवर्धनः ॥२३॥
निष्कर्मा कर्मदो नाथः कर्मज्ञः कर्मनाशकः । अनर्घः कारकः कर्म क्रियार्हः कर्मबाधकः ॥२४॥
निर्गुणो गुणवानीशो विधाता सामगोऽजितः । जितश्वासो जितप्राणो जितानङ्गो जितेन्द्रियः ॥२५॥
कृष्णभावी कृष्णनामी कृष्णात्मा कृष्णनायकः । अद्वैतो द्वैतसाहित्यो द्विभावः पालको वशी ॥२६॥
श्रीवासः श्रीधराहव्यो हलनायकसारवित् । विश्वरूपानुजश्चन्द्रो वरीयान् माधवोऽच्युतः ॥२७॥
रूपासक्तः सदाचारो गुणज्ञो बहुभावकः । गुणहीनो गुणातीतो गुणग्राही गुणार्णवः ॥२८॥
ब्रह्मानन्दो नित्यानन्दः प्रेमानन्दोऽतिनन्दकः । निन्द्यहारी निन्द्यवर्जी निन्द्यघ्नः परितोषकः ॥२९॥
यज्ञबाहुर्विनीतात्मा नामयज्ञप्रचारकः । कलिवर्यः सुचिनांशुः पर्यांसुः पावकोपमः ॥३०॥
हिरण्यगर्भः सूक्ष्मात्मा वैराज्यो विरजापतिः । विलासी प्रभावी स्वांशी परावस्थः शिरोमणिः ॥३१॥
मायाघ्नो मायिको मायी मायावादी विचक्षणः । कृष्णाच्छादी कृष्णजल्पी विषयघ्नो निराकृतिः ॥३२॥
सङ्कल्पशून्यो मायीशो मायाद्वेशी व्रजप्रियः । व्रजाधीशो व्रजपतिर्गोपगोकुलनन्दनः ॥३३॥
व्रजवासी व्रजभावो व्रजनायकसत्तमः । गुप्तप्रियो गुप्तभावो वाञ्छितः सत्कुलाश्रयः ॥३४॥
रागानुगो रागसिन्धू रागात्मा रागवर्धनः । रागोद्गतः प्रेमसाक्षी भट्टनाथः सनातनः ॥३५॥
गोपालभट्टगः प्रीतो लोकनाथप्रियः पटुः । द्विभुजः षड्भुजो रूपी राजदर्पविनाशनः ॥३६॥
काशिमिश्रप्रियो वन्द्यो वन्दनीयः शचिप्रसूः । मिश्रपुरन्दराधिसो रघुनाथप्रियो रयः ॥३७॥
सार्वभौमदर्पहारी अमोघारिर्वसुप्रियः । सहजः सहजाधीशः शाश्वतः प्रणयातुरः ॥३८॥
किलकिञ्चिदभावार्तः पाण्डुगण्डः शुचातुरः । प्रलापी बहुवाक् शुद्धः ऋजुर्वक्रगतिः शिवः ॥३९॥
घत्तायितोऽरविन्दाक्षः प्रेमवैचित्यलक्षकः । प्रियाभिमानी चतुरः प्रियावर्ती प्रियोन्मुखः ॥४०॥
लोमाञ्चितः कम्पधरः अश्रुमुखो विशोकहा । हास्यप्रियो हास्यकारी हास्ययुग् हास्यनागरः ॥४१॥
हास्यग्रामी हास्यकरस्त्रिभङ्गी नर्तनाकुलः । ऊर्ध्वलोमा ऊर्ध्वहस्त ऊर्ध्वरावी विकारवान् ॥४२॥
भवोल्लासी धीरशान्तो धीरङ्गो धीरनायकः । देवास्पदो देवधामा देवदेवो मनोभवः ॥४३॥
हेमाद्रिर्हेमलावण्यः सुमेरुर्ब्रह्मसादनः । ऐरावतस्वर्णकान्तिः शरघ्नो वाञ्छितप्रदः ॥४४॥
करोभोरूः सुदीर्घाक्षः कम्पभ्रूचक्षुनासिकः । नामग्रन्थी नामसङ्ख्या भावबद्धस्तृषाहरः ॥४५॥
पापाकर्षी पापहारी पापघ्नः पापशोधकः । दर्पहा धनदोऽरिघ्नो मानहा रिपुहा मधुः ॥४६॥
रूपहा वेशहा दिव्यो दीनबन्धुः कृपामयः । सुधक्षरः सुधास्वादी सुधामा कमनीयकः ॥४७॥
निर्मुक्तो मुक्तिदो मुक्तो मुक्ताख्यो मुक्तिबाधकः । निःशङ्को निरहङ्कारो निर्वैरो विपदापहः ॥४८॥
विदग्धो नवलावण्यो नवद्वीपद्विज प्रभुः । निरङ्कुशो देववन्द्यः सुराचार्यः सुरारिहा ॥४९॥
सुरवर्यो निन्द्यहारी वादघ्नः परितोषकः । सुप्रकाशो बृहद्बाहुर्मित्रज्ञः कविभूषणः ॥५०॥
वरप्रदो वरपाङ्गो वरयुग् वरनायकः । पुष्पहासः पद्मगन्धिः पद्मरागः प्रजागरः ॥५१॥
ऊर्ध्वगः सत्पथाचारी प्राणद ऊर्ध्वगायकः । जनप्रियो जनाह्लादो जनकऋषि जनस्पृहः ॥५२॥
अजन्मा जन्मनिलयो जनानदो जनार्द्रधीः । जगन्नाथो जगद्बन्धुर्जगद्देवो जगत्पतिः ॥५३॥
जनकारी जनामोदो जनकानन्दसाग्रहः । कलिप्रियः कलिश्लाघ्यः कलिमानविवर्धनः ॥५४॥
कलिवर्यः सदानन्दः कलिकृत् कलिधन्यमान् । वर्धामनः श्रुतिधरः वर्धनो वृद्धिदायकः ॥५५॥
सम्पदः शारणो दक्षो घृणाङ्गी कलिरक्षकः । कलिधन्यः समयज्ञः कलिपुण्यप्रकाशकः ॥५६॥
निश्चिन्तो धीरललितो धीरवाक् प्रेयसीप्रियः । वामास्पर्शी वामभावो वामरूपो मनोहरः ॥५७॥
अतीन्द्रियः सुराध्यक्षो लोकाध्यक्षः कृतकृतः । युगादिकृद् युगकरो युगज्ञो युगनायकः ॥५८॥
युगावर्तो युगासीमः कालवान् कालशक्तिधृक् । प्रणयः शाश्वतो हृष्टो विश्वजिद् बुद्धिमोहनः ॥५९॥
सन्ध्याता ध्यानकृद् ध्यानी ध्यानमङ्गलसन्धिमान् । विस्रुतात्मा हृदिस्थिरो ग्रामनियप्रग्राहकः ॥६०॥
स्वरमूर्च्छी स्वरालापी स्वरमूर्तिविभूषणः । गानग्राही गानलुब्धो गायको गानवर्धनः ॥६१॥
गानमान्यो ह्यप्रमेयः सत्कर्ता विश्वधृक् सहः । क्षीराब्धिकमथाकारः प्रेमगर्भझषाकृतिः ॥६२॥
बीभत्सुर्भावहृदयः अदृश्यो बर्हिदर्शकः । ज्ञानरुद्धो धीरबुद्धिरखिलात्मप्रियः सुधीः ॥६३॥
अमेयः सर्वविद्भानुर्बभ्रूर्बहुशिरो रुचिः । उरुश्रवाः महादीर्घो वृषकर्मा वृषाकृतिः ॥६४॥
श्रुतिस्मृतिधरो वेदः श्रुतिज्ञः श्रुतिबाधकः । हृदिस्पृश आस आत्मा श्रुतिसारो विचक्षणः ॥६५॥
कलापी निरनुग्राही वैद्यविद्याप्रचारकः । मीमांसकारिर्वेदाङ्ग वेदार्थप्रभवो गतिः ॥६६॥
परावरज्ञो दुष्पारो विरहाङ्गी सतां गतिः । असङ्ख्येयोऽप्रमेयात्मा सिद्धिदः सिद्धिसाधनः ॥६७॥
धर्मसेतुर्धर्मपरो धर्मात्मा धर्मभावनः । उदीर्णसंशयच्छिन्नो विभूतिः शाश्वतः स्थिरः ॥६८॥
शुद्धात्मा शोभनोत्कण्ठोऽनिर्देश्यः साधनप्रियः । ग्रन्थप्रियो ग्रन्थमयः शास्त्रयोनिर्महाशयः ॥६९॥
अवर्णो वर्णनिलयो नाश्रमी चतुराश्रमः । अविप्र विप्रकृत् स्तुत्यो राजन्यो राज्यनाशकः ॥७०॥
अवश्यो वश्यताधीनः श्रीभक्तिव्यवसायकः । मनोजवः पुरयिता भक्तिकीर्तिरनामयः ॥७१॥
निधिवर्जी भक्तिनिधिर्दुर्लभो दुर्गभावकृत् । कर्तनीः कीर्तिरतुलः अमृतो मुरजप्रियः ॥७२॥
शृङ्गारः पञ्चमो भावो भावयोनिरनन्तरः । भक्तिजित् प्रेमभोजी च नवभक्तिप्रचारकः ॥७३॥
त्रिगर्तस्त्रिगुणामोदस्त्रिवाञ्छी प्रीतिवर्धनः । नियन्ता श्रमगोऽतीतः पोषणो विगतज्वरः ॥७४॥
प्रेमज्वरो विमानार्हः अर्थहा स्वप्ननाशनः । उत्तारणो नामपुण्यः पापपुण्यविवर्जितः ॥७५॥
अपराधहरः पाल्यः स्वस्तिदः स्वस्तिभूषणः । पूतात्मा पूतगः पूतः पूतभावो महास्वनः ॥७६॥
क्षेत्रज्ञः क्षेत्रविजयी क्षेत्रवासो जगत्प्रसूः । भयहा भयदो भास्वान् गौणभावसमन्वितः ॥७७॥
मण्डितो मण्डलकरो वैजयन्तीपवित्रकः । चित्राङ्गश्चित्रितश्चित्रो भक्तचित्तप्रकाशकः ॥७८॥
बुद्धिगो बुद्धिदो बुद्धिर्बुद्धिधृग् बुद्धिवर्धनः । प्रेमाद्रिधृक् प्रेमवहो रतिवोढ रतिस्पृशः ॥७९॥
प्रेमचक्षुः प्रेमगह्नः प्रेमहृत् प्रेमपूरकः । गम्भीरगो बहिर्वासो भावानुष्ठितगो पतिः ॥८०॥
नैकरूपो नैकभावो नैकात्मा नैकरूपधृक् । श्लथसन्धिः क्षीणधर्मस्त्यक्तपाप उरुश्रवः ॥८१॥
उरुगाय उरुग्रीव उरुभाव उरुक्रमः । निर्धूतो निर्मलो भावो निरीहो निरनुग्रहः ॥८२॥
निर्धूमोऽग्निः सुप्रतापस्तीव्रतापो हुताशनः । एको महद्भूतव्यापी पृथग्भूतः अनेकशः ॥८३॥
निर्णयी निरनुज्ञातो दुष्टग्रामनिवर्तकः । विप्रबन्धुः प्रियो रुच्यो रोचकाङ्गो नराधिपः ॥८४॥
लोकाध्यक्षः सुवर्णाभः कनकाब्जः शिखामणिः । हेमकुम्भो धर्मसेतुर्लोकनाथो जगद्गुरुः ॥८५॥
लोहिताक्षो नामकर्मा भावस्थो हृद्गुहाशयः । रसप्राणो रतिज्येष्ठो रसाब्धिरतिराकुलः ॥८६॥
भावसिन्धुर्भक्तिमेघो रसवर्षी जनाकुलः । पीताब्जो नीलपीताभो रतिभोक्ता रसायनः ॥८७॥
अव्यक्तः स्वर्णराजीवो विवर्णी साधुदर्शनः । अमृत्युः मृत्युदोऽरुद्धः सन्धाता मृत्युवञ्चकः ॥८८॥
प्रेमोन्मत्तः कीर्तनर्त्तः सङ्कीर्तनपिता सुरः । भक्तिग्रामः सुसिद्धार्थः सिद्धिदः सिद्धिसाधनः ॥८९॥
प्रेमोदरः प्रेमवाहू लोकभर्ता दिशाम्पतिः । अन्तः कृष्णो बहिर्गौरो दर्शको रतिविस्तरः ॥९०॥
सङ्कल्पसिद्धो वाञ्छात्मा अतुलः सच्छरीरभृत् । ऋड्धार्थः करुणापाङ्गो नदकृद् भक्तवत्सलः ॥९१॥
अमत्सरः परानन्दः कौपीनी भक्तिपोषकः । अकैतवो नाममाली वेगवान् पूर्णलक्षणः ॥९२॥
मिताशनो विवर्ताक्षो व्यवसाया व्यवस्थितः । रतिस्थानो रतिवनः पश्चात्तुष्टः शमाकुलः ॥९३॥
क्षोभणो विरभो मार्गो मार्गधृग् वर्त्मदर्शकः । नीचाश्रमी नीचमानी विस्तारो बीजमव्ययः ॥९४॥
मोहकायः सूक्ष्मगतिर्महेज्यः सत्त्रवर्धनः । सुमुखः स्वापनोऽनादिः सुकृत् पापविदारणः ॥९५॥
श्रीनिवासो गभीरात्मा शृङ्गारकनकादृतः । गभीरो गहनो वेधा साङ्गोपाङ्गो वृषप्रियः ॥९६॥
उदीर्णरागो वैचित्री श्रीकरः स्तवनार्हकः । अश्रुचक्षुर्जलाब्यङ्ग पूरितो रतिपूरकः ॥९७॥
स्तोत्रायणः स्तवाध्यक्षः स्तवनीयः स्तवाकुलः । ऊर्ध्वरेतः सन्निवासः प्रेममूर्तिः शतानलः ॥९८॥
भक्तबन्धुर्लोकबन्धुः प्रेमबन्धुः शताकुलः । सत्यमेधा श्रुतिधरः सर्वशस्त्रभृतांवरः ॥९९॥
भक्तिद्वारो भक्तिगृहः प्रेमागारो निरोधहा । उद्घूर्णो घूर्णितमना आघूर्नितकलेवरः ॥१००॥
भवभ्रान्तिजसन्देहः प्रेमराशिः शुचापहः । कृपाचार्यः प्रेमसङ्गो वयुनः स्थिरयौवनः ॥१०१॥
सिन्धुगः प्रेमसङ्गाहः प्रेमवश्यो विचक्षणः । पद्मकिञ्जल्कसङ्काशः प्रेमादारो नियामकः ॥१०२॥
विरक्तो विगतारातिर्नापेक्षो नारददृतः । नतस्थो दक्षिणः क्षामः शठजीवप्रतारकः ॥१०३॥
नामप्रवर्तकोऽनर्थो धर्मोगुर्वादिपुरुषः । न्यग्रोधो जनको जातो वैनत्यो भक्तिपादपः ॥१०४॥
आत्ममोहः प्रेमलीधः आत्मभावानुगो विराट् । माधुर्यवत् स्वात्मरतो गौरख्यो विप्ररूपधृक् ॥१०५॥
राधारूपी महाभावी राध्यो राधनतत्परः । गोपीनाथात्मकोऽदृश्यः स्वाधिकारप्रसाधकः ॥१०६॥
नित्यास्पदो नित्यरूपी नित्यभावप्रकाशकः । सुस्थभावश्चपलधीः स्वच्छगो भक्तिपोषकः ॥१०७॥
सर्वत्रगस्तीर्थभूतो हृदिस्थः कमलासनः । सर्वभावानुगाधीशः सर्वमङ्गलकारकः ॥१०८॥
इत्येतत्कथितं नित्यं साहस्रं नामसुन्दरम् । गोलोकवासिनो विष्णोर्गौररूपस्य शार्ङ्गिनः ॥१०९॥
इदं गौरसहस्राख्याम् आमयघ्नं शुचापहम् । प्रेमभक्तिप्रदं नृणां गोविन्दाकर्षकं परम् ॥११०॥
प्रातःकाले च मध्याह्ने सन्ध्यायां मध्यरात्रिके । यः पठेत्प्रयतो भक्त्या चैतन्ये लभते रतिम् ॥१११॥
नामात्मको गौरदेवो यस्य चेतसि वर्तते । स सर्वं विषयं त्यक्त्वा भावानन्दो भवेद्ध्रुवम् ॥११२॥
यस्मै कस्मै न दातव्यम् दाने तु भक्तिहा भवेत् । विनीताय प्रशान्ताय गौरभक्ताय धीमते ॥११३॥
तस्मै देयं ततो ग्राह्यमिति वैष्णवशासनम् ॥
इति श्रीकविकर्णपूरविरचितम् श्रीकृष्णचैतन्यचन्द्रस्य सहस्रनामस्तोत्रं संपूर्णम् ॥

Comments

Popular posts from this blog

शुद्ध भक्त चरण रेणु

श्री शिक्षा अष्टकम

श्री राधा 1008 नाम माला